मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४५, ऋक् २

संहिता

स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिन्द्रा॑य तोशसे ।
दे॒वान्त्सखि॑भ्य॒ आ वर॑म् ॥

पदपाठः

सः । नः॒ । अ॒र्ष॒ । अ॒भि । दू॒त्य॑म् । त्वम् । इन्द्रा॑य । तो॒श॒से॒ ।
दे॒वान् । सखि॑ऽभ्यः । आ । वर॑म् ॥

सायणभाष्यम्

हे सोम त्वं नोस्माकं दूत्यं दूतस्यकर्मार्षाभिगच्छ । अपिच यस्त्वमिन्द्रायेन्द्रायेन्द्रार्थं तोशसे पीयसे सत्वं शाकिभ्यः प्रियभ्योस्मभ्यं वरं श्रेष्ठं धनं देवानापवस्वेत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः