मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४५, ऋक् ३

संहिता

उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् ।
वि नो॑ रा॒ये दुरो॑ वृधि ॥

पदपाठः

उ॒त । त्वाम् । अ॒रु॒णम् । व॒यम् । गोभिः॑ । अ॒ञ्ज्मः॒ । मदा॑य । कम् ।
वि । नः॒ । रा॒ये । दुरः॑ । वृ॒धि॒ ॥

सायणभाष्यम्

उतापिच हे सोम यमरुणमरुणवर्णं त्वां मदाय मदार्थं वयमांगिरसायास्याः गोभिः गोविकारैः पयोभिः रंज्मोवासयामः संस्कुर्मः । कमिति पूरणम् । सत्वं नोस्माकं राये धनाय दुरोद्वाराणि विवृधि विवृतानि कुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः