मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४५, ऋक् ५

संहिता

समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
इन्दुं॑ ना॒वा अ॑नूषत ॥

पदपाठः

सम् । ई॒मिति॑ । सखा॑यः । अ॒स्व॒र॒न् । वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ।
इन्दु॑म् । ना॒वाः । अ॒नू॒ष॒त॒ ॥

सायणभाष्यम्

अत्यविमतिक्रान्तं दशापवित्रं वने उदके क्रीळन्तं संक्रीडमानमीमेनमिन्दुं सोमं सखायः प्रियस्तोतारः समस्वरन् संस्तुवन्ति । नावाः वाचोप्यनूषतास्तुवन् । नौ अक्षरमिति वाङ् नामसु पाठात् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः