मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४५, ऋक् ६

संहिता

तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से ।
इन्दो॑ स्तो॒त्रे सु॒वीर्य॑म् ॥

पदपाठः

तया॑ । प॒व॒स्व॒ । धार॑या । यया॑ । पी॒तः । वि॒ऽचक्ष॑से ।
इन्दो॒ इति॑ । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हे इन्दो त्वं यया धारया पीतः सन् विचक्षसे विचक्षणाय स्तोत्रे स्तोत्राणां कर्त्रे पुरुषाय सुवीर्यं शोभनवीर्यं प्रयच्छसीतिशेषः । तया धारया पवस्व क्षर ॥ ६ ॥

असृग्रन्निति षळृचं द्वविंशं सूक्तं ऋष्याद्याः पूर्ववत् । असृग्रन्नित्यनुक्रान्तम् । गतोविनियगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः