मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४६, ऋक् १

संहिता

असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑स॒ः कृत्व्या॑ इव ।
क्षर॑न्तः पर्वता॒वृधः॑ ॥

पदपाठः

असृ॑ग्रन् । दे॒वऽवी॑तये । अत्या॑सः । कृत्व्याः॑ऽइव ।
क्षर॑न्तः । प॒र्व॒त॒ऽवृधः॑ ॥

सायणभाष्यम्

पर्वतावृधः पर्वतैरभिषवग्रावभिर्वृद्धाः पर्वतेषु वा जाताः क्षरन्तः सोमाः देववीतये यज्ञाय अत्यासोश्वाः कृत्व्याइव । यथा कर्मण्याः अश्वास्तद्वदसृग्रन् सृज्यन्ते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः