मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४६, ऋक् २

संहिता

परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती ।
वा॒युं सोमा॑ असृक्षत ॥

पदपाठः

परि॑ऽकृतासः । इन्द॑वः । योषा॑ऽइव । पित्र्य॑ऽवती ।
वा॒युम् । सोमाः॑ । अ॒सृ॒क्ष॒त॒ ॥

सायणभाष्यम्

इन्दवोयागेषु क्लिद्यमानाः सोमाः परिष्कृतासः परिष्कृताः अलंकृताः सन्तः पित्र्यावती पितृमती योषेवालंकृता कन्यका यथा वरं प्रति गच्छति तद्वद्वायुं प्रत्यसृक्षत गच्छन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः