मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४६, ऋक् ३

संहिता

ए॒ते सोमा॑स॒ इन्द॑व॒ः प्रय॑स्वन्तश्च॒मू सु॒ताः ।
इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥

पदपाठः

ए॒ते । सोमा॑सः । इन्द॑वः । प्रय॑स्वन्तः । च॒मू इति॑ । सु॒ताः ।
इन्द्र॑म् । व॒र्ध॒न्ति॒ । कर्म॑ऽभिः ॥

सायणभाष्यम्

इन्दवः दीप्ताः प्रयस्वन्तोन्नवन्तः एते अस्मिन्कर्मणि वर्तमाना अमी सोमासः सोमाः चमू चम्वोरधिषवणफलकयोः सुता अभिषुताःसन्तः कर्मभिर्यागैरिद्रं वर्धन्ति प्रवर्धयन्ति प्रीण- यन्तीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः