मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४६, ऋक् ४

संहिता

आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ ।
गोभि॑ः श्रीणीत मत्स॒रम् ॥

पदपाठः

आ । धा॒व॒त॒ । सु॒ऽह॒स्त्यः॒ । शु॒क्रा । गृ॒भ्णी॒त॒ । म॒न्थिना॑ ।
गोभिः॑ । श्री॒णी॒त॒ । म॒त्स॒रम् ॥

सायणभाष्यम्

हे सुहस्त्यः शोभनहस्ता ऋत्विज आधावत मां संप्रत्यागच्छत । मंथिना सह शुक्रा शुक्र च गृभ्णीत गृह्णीत सोमम् । मत्सरं सोमं गोभिर्गोविकारैः पयोभिः श्रीणीत संस्कुरुत च ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः