मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४६, ऋक् ५

संहिता

स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः ।
अ॒स्मभ्यं॑ सोम गातु॒वित् ॥

पदपाठः

सः । प॒व॒स्व॒ । ध॒न॒म्ऽज॒य॒ । प्र॒ऽय॒न्ता । राध॑सः । म॒हः ।
अ॒स्मभ्य॑म् । सो॒म॒ । गा॒तु॒ऽवित् ॥

सायणभाष्यम्

हे धनंजय शत्रुसंबंधिनानां जेतः सोम गातुविदभीष्टमार्गस्यलंभकोस्मभ्यं महोमहतोराध सोधनस्य प्रयन्ता प्रदाता च सत्वं पवस्व क्षर ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः