मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४६, ऋक् ६

संहिता

ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ ।
इन्द्रा॑य मत्स॒रं मद॑म् ॥

पदपाठः

ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । पव॑मानम् । दश॑ । क्षिपः॑ ।
इन्द्रा॑य । म॒त्स॒रम् । मद॑म् ॥

सायणभाष्यम्

मर्ज्यं मर्जनीयं शोध्यं पवमानं क्षरन्तं मत्सरं मदकरमेतमिमं मदं सोमं दशसंख्याकाः क्षि- पोंगुलयः । व्रिशः क्षिपइत्यंगुलिनामसुपाठात् । इन्द्राय इन्द्रार्थं मृजन्ति पवित्रे शोधयन्ति ॥ ६ ॥

अयासोमइति पंचर्चं त्रयोविंशंसूक्तं भृगुपुत्रस्य कवेरार्षं गायत्रं पवमानसोमदेवताकम् । तथाचानुक्रान्तं—अयासोमः पंच कविर्भार्गवइति । उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः