मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४७, ऋक् २

संहिता

कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत॑न्ते दस्यु॒तर्ह॑णा ।
ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥

पदपाठः

कृ॒तानि॑ । इत् । अ॒स्य॒ । कर्त्वा॑ । चेत॑न्ते । द॒स्यु॒ऽतर्ह॑णा ।
ऋ॒णा । च॒ । धृ॒ष्णुः । च॒य॒ते॒ ॥

सायणभाष्यम्

अस्य यस्यैतस्य सोमस्य दस्युतर्हणा दस्यूनामसुराणां तर्हणानि नाशकानि कर्त्वा कर्माणि कृतानीत् अस्माभिरेव कृतानि सोयं धृष्णुर्धृष्टःसोमो यजमानानामृणाच ऋणान्यपि चयते कामप्रदानेन चातयति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः