मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४७, ऋक् ३

संहिता

आत्सोम॑ इन्द्रि॒यो रसो॒ वज्र॑ः सहस्र॒सा भु॑वत् ।
उ॒क्थं यद॑स्य॒ जाय॑ते ॥

पदपाठः

आत् । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ । वज्रः॑ । स॒ह॒स्र॒ऽसाः । भु॒व॒त् ।
उ॒क्थम् । यत् । अ॒स्य॒ । जाय॑ते ॥

सायणभाष्यम्

यद्यदास्येन्द्रस्योक्थं शस्त्रं जायते प्रादुर्भवति तदा आदनन्तरमेवेन्द्रियः इन्द्रस्य प्रियकरोर सोबलवान् वज्रोवज्रसदृशःकेनाप्यहिंस्यः सोमः सहस्रसा अस्मभ्यं अपरिमितस्य धनस्य दाता भवति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः