मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४७, ऋक् ४

संहिता

स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति ।
यदी॑ मर्मृ॒ज्यते॒ धियः॑ ॥

पदपाठः

स्व॒यम् । क॒विः । वि॒ऽध॒र्तरि॑ । विप्रा॑य । रत्न॑म् । इ॒च्छ॒ति॒ ।
यदि॑ । म॒र्मृ॒ज्यते॑ । धियः॑ ॥

सायणभाष्यम्

यदि कविः क्रान्तकर्मायं सोमो धियोधीभिः विभक्तिव्यत्ययः धीभिरंगुलीभिरित्यर्थः । मर्मृज्यते शोध्यते तर्हि स्वयं स्वयमेव विप्राय मेधाविने विधर्तरि कामानां विधातरीन्द्रे रत्नं रमणीयं धनमिच्छति । इन्द्रेण धनं दापयितुमिच्छतीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः