मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४७, ऋक् ५

संहिता

सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव ।
भरे॑षु जि॒ग्युषा॑मसि ॥

पदपाठः

सि॒सा॒सतुः॑ । र॒यी॒णाम् । वाजे॑षु । अर्व॑ताम्ऽइव ।
भरे॑षु । जि॒ग्युषा॑म् । अ॒सि॒ ॥

सायणभाष्यम्

हे सोम त्वं भरेषु संग्रामेषु जिग्युषां शत्रुं जयतां रयीणां धनानां सिषासतुः संभक्तुमिच्छुर सि भवसि शत्रून् जयद्भ्योधनानि प्रयच्छसि इत्यर्थः । तत्रदृष्टान्तः—वाजेषु संग्रामेष्वर्वतामिव अश्वानामिव यथा संग्रामं प्रविशद्भ्योश्वेभ्योघासं प्रयच्छन्ति तद्वदित्यर्थः ॥ ५ ॥

तंत्वेति पंचर्चं चतुर्विंशं सूक्तं ऋष्याद्याः पूर्ववत् । तंत्वेत्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः