मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४८, ऋक् १

संहिता

तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः ।
चारुं॑ सुकृ॒त्यये॑महे ॥

पदपाठः

तम् । त्वा॒ । नृ॒म्णानि॑ । विभ्र॑तम् । स॒धऽस्थे॑षु । म॒हः । दि॒वः ।
चारु॑म् । सु॒ऽकृ॒त्यया॑ । ई॒म॒हे॒ ॥

सायणभाष्यम्

महो दिवः महतोद्युलोकस्य सधस्थेषु सहस्थानेषु स्थितं नृम्णानि धनानि बिभ्रतमस्मदर्थं धारयन्तं चारुं कल्याणं तं पवमानं त्वा त्वां सुकृत्यया शोभनया क्रियया ईमहे धनानि याचामहे ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः