मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४८, ऋक् २

संहिता

संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मद॑म् ।
श॒तं पुरो॑ रुरु॒क्षणि॑म् ॥

पदपाठः

संवृ॑क्तऽधृष्णुम् । उ॒क्थ्य॑म् । म॒हाऽम॑हिव्रतम् । मद॑म् ।
श॒तम् । पुरः॑ । रु॒रु॒क्षणि॑म् ॥

सायणभाष्यम्

हे सोम संवृक्तधृष्णुं संवृक्ताः संछिन्ना धृष्णवो धर्षणशीलाः शत्रवो येनासौ संवृक्तधृष्णु स्तमुक्थ्यमुक्थार्हं प्रशंस्यं महामहिव्रतं मंहनीयबहुकर्माणं मदं मदकरं शतं बहूनि पुरः शत्रूणां पुराणि रुरुक्षणिं विनाशयन्तं त्वां धनानीमहइति संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः