मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४८, ऋक् ४

संहिता

विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुर॑म् ।
गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥

पदपाठः

विश्व॑स्मै । इत् । स्वः॑ । दृ॒शे । साधा॑रणम् । र॒जः॒ऽतुर॑म् ।
गो॒पाम् । ऋ॒तस्य॑ । विः । भ॒र॒त् ॥

सायणभाष्यम्

रजस्तुरमुदकस्य प्रेरकमृतस्य यज्ञस्य गोपां गोपायितारं विश्वस्मै सर्वस्मै स्वर्दृशे सर्वेदृशे देवाय साधारणमित्समानमेवसन्तं सोमं विः पक्षी श्येनोभरत् स्वर्गादाहरत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः