मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४९, ऋक् २

संहिता

तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् ।
जन्या॑स॒ उप॑ नो गृ॒हम् ॥

पदपाठः

तया॑ । प॒व॒स्व॒ । धार॑या । यया॑ । गावः॑ । इ॒ह । आ॒ऽगम॑न् ।
जन्या॑सः । उप॑ । नः॒ । गृ॒हम् ॥

सायणभाष्यम्

हे सोम त्वं तया तादृश्या धारया पवस्व क्षर । कीदृश्येत्यत्राह—यया यादृश्या त्वदीयया धारया जन्यासोजन्याः शत्रुजनपदभवागावः इहास्मिन्लोके नोस्माकं संबन्धिगृहमुपागमन्नु- पागच्छन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः