मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४९, ऋक् ३

संहिता

घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः ।
अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥

पदपाठः

घृ॒तम् । प॒व॒स्व॒ । धार॑या । य॒ज्ञेषु॑ । दे॒व॒ऽवीत॑मः ।
अ॒स्मभ्य॑म् । वृ॒ष्टिम् । आ । प॒व॒ ॥

सायणभाष्यम्

हे सोम यज्ञेषु देववीतमोत्यन्तं देवकामस्त्वं अस्मभ्यं भार्गवेभ्यः कविभ्योघृतमुदकम् । वनं घृतमित्युदकनामसु पाठात् । धारया संपातेन पवस्व क्षर । वृष्टिं वर्षं वा आपवापवस्व ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः