मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४९, ऋक् ४

संहिता

स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या ।
दे॒वासः॑ शृ॒णव॒न्हि क॑म् ॥

पदपाठः

सः । नः॒ । ऊ॒र्जे । वि । अ॒व्यय॑म् । प॒वित्र॑म् । धा॒व॒ । धार॑या ।
दे॒वासः॑ । शृ॒णव॑न् । हि । क॒म् ॥

सायणभाष्यम्

हे सोम सत्वं नोस्माकमूर्जे अन्नायाव्ययमविमयं पवित्रं धारया संपातेन विधाव प्राप्नुहि । देवासोदेवाः अपि हि कं श्रृणवत् गमनवेलायामुत्पन्नं तव शब्दं श्रृण्वद्न्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः