उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः ।
वा॒णस्य॑ चोदया प॒विम् ॥
उत् । ते॒ । शुष्मा॑सः । ई॒र॒ते॒ । सिन्धोः॑ । ऊ॒र्मेःऽइ॑व । स्व॒नः ।
वा॒णस्य॑ । चो॒द॒य॒ । प॒विम् ॥
हे सोम ते तव शुष्मासः शुष्मावेगा उदीरते उद्गच्छन्ति । तत्रदृष्टान्तः—सिन्धोः समुद्रस्यो र्मेरिव यथा तरंगात्स्वनोध्वनिरुद्गच्छति तद्वदित्यर्थः । सत्वं वाणस्य विसृष्टस्य वाणस्य नालस्य वादित्रविशेषस्य पविं शब्दम् । पविः भारतीति वाङ्गामसुपाठात् । चोदय प्रेरय । वेगेन स्यंदमानस्त्वं विसृष्टबाणशब्दसदृशं शब्दं कुर्वित्यर्थः ॥ १ ॥