मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५०, ऋक् २

संहिता

प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युवः॑ ।
यदव्य॒ एषि॒ सान॑वि ॥

पदपाठः

प्र॒ऽस॒वे । ते॒ । उत् । ई॒र॒ते॒ । ति॒स्रः । वाचः॑ । म॒ख॒स्युवः॑ ।
यत् । अव्ये॑ । एषि॑ । सान॑वि ॥

सायणभाष्यम्

हे सोम ते तव प्रसवेसति मखस्युवो यज्ञमिच्छवो यजमानस्य तिस्रोवाचः ऋग्यजुःसा- मात्मकानि त्रीणि वाक्यान्युदीरते उद्गच्छन्ति । कदेत्यतआह—यद्यदा सानवि व्युच्छ्रिते अव्ये अविमये पवित्रे एषि त्वं गच्छसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः