मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५०, ऋक् ४

संहिता

आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥

पदपाठः

आ । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । प॒वित्र॑म् । धार॑या । क॒वे॒ ।
अ॒र्कस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

सायणभाष्यम्

हे मदिन्तम मादयितृतम कवे क्रान्तकर्मन् सोम अर्कस्यार्चनीयस्येन्द्रस्य योनिं उदरं स्थान मासदं प्राप्तुं पवित्रमतीत्य धारया संपातेनापवस्व आभिमुख्येन क्षर । यद्यप्येषा पूर्वस्मिन्न- ध्याये व्याकृता तथापि मन्दमतीनां विस्मरणशंकया पुनर्व्याख्याता ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः