मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५०, ऋक् ५

संहिता

स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो अ॒क्तुभि॑ः ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥

पदपाठः

सः । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । गोभिः॑ । अ॒ञ्जा॒नः । अ॒क्तुऽभिः॑ ।
इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥

सायणभाष्यम्

हे मदिन्तम मादयितृतमेन्दो सोम उक्तुभिरंजनसाधनभूतैर्गोभिः गोविकारैः पयोभिरंजा नोज्यमानः संस्क्रियमाणः सत्वं इन्द्रायेन्द्रस्य पीतये पानाय पवस्व क्षर ॥ ५ ॥

अध्वर्योइति पंचर्चं सप्तविंशंसूक्तं आंगिरसस्य उचथ्यस्यार्षं गायत्रं पवमानसोमदेवता कम् । तथाचानुक्रम्यते—अध्वर्योइति । गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः