मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५१, ऋक् २

संहिता

दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
सु॒नोता॒ मधु॑मत्तमम् ॥

पदपाठः

दि॒वः । पी॒यूष॑म् । उ॒त्ऽत॒मम् । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।
सु॒नोत॑ । मधु॑मत्ऽतमम् ॥

सायणभाष्यम्

हे अध्वर्यवो यूयं मधुमत्तममतिशयेन मधुमन्तं दिवोद्युलोकस्य पीयूषममृतमुत्तमं श्रेष्ठं सोमं वज्रिणे वज्रवते इन्द्राय सुनोताभिषुणुत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः