मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५१, ऋक् ४

संहिता

त्वं हि सो॑म व॒र्धय॑न्त्सु॒तो मदा॑य॒ भूर्ण॑ये ।
वृष॑न्त्स्तो॒तार॑मू॒तये॑ ॥

पदपाठः

त्वम् । हि । सो॒म॒ । व॒र्धय॑न् । सु॒तः । मदा॑य । भूर्ण॑ये ।
वृष॑न् । स्तो॒तार॑म् । ऊ॒तये॑ ॥

सायणभाष्यम्

हे सोम सुतोभिषुतस्त्वं वर्धयन् देवान् प्रवृद्धान् कुर्वन् वृषन् कामान् वर्षन् भूर्णये क्षि- प्राय मदायोतये रक्षणायच स्तोतारमभिगच्छसीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः