मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५२, ऋक् १

संहिता

परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अन्ध॑सा ।
सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥

पदपाठः

परि॑ । द्यु॒क्षः । स॒नत्ऽर॑यिः । भर॑त् । वाज॑म् । नः॒ । अन्ध॑सा ।
सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ॥

सायणभाष्यम्

द्युक्षोदीप्तः सनद्रयिः दीयमानधनः सोमोनोस्माकं वाजं बलमंधसान्नेनसह परिभरत् परिभरतु । अथप्रत्यक्षस्तुतिः हे सोम सुवानोभिषूयमाणस्त्वं पवित्रे आर्ष क्षर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः