मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५२, ऋक् २

संहिता

तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
स॒हस्र॑धारो या॒त्तना॑ ॥

पदपाठः

तव॑ । प्र॒त्नेभिः॑ । अध्व॑ऽभिः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः ।
स॒हस्र॑ऽधारः । या॒त् । तना॑ ॥

सायणभाष्यम्

हे सोम तव संबंधी प्रियोदेवानां प्रीतिकरः सहस्रधारोबहुधारः तना विस्तृतसारोरसः प्रत्नेभिः पुराणैः अध्वभिर्मार्गैः अव्योवारे वाले दशापवित्रे परियात् परिगच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः