मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५४, ऋक् ४

संहिता

परि॑ णो दे॒ववी॑तये॒ वाजाँ॑ अर्षसि॒ गोम॑तः ।
पु॒ना॒न इ॑न्दविन्द्र॒युः ॥

पदपाठः

परि॑ । नः॒ । दे॒वऽवी॑तये । वाजा॑न् । अ॒र्ष॒सि॒ । गोऽम॑तः ।
पु॒ना॒नः । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः ॥

सायणभाष्यम्

हे इन्दो सोम इन्द्रयुरिन्द्रकामः पुनानः पूयमानस्त्वं नोस्माकं देववीतये यज्ञाय गोमतोगो- युक्तानि वाजानन्नानि पर्यर्षसि परितः क्षरेत्यर्थः ॥ ४ ॥

यवंयवंनइति चतुरृचमेकत्रिंशं सूक्तं काश्यपस्यावत्सारस्यार्षं गायत्रं पवमानसोमदेवताकम् । यवंयवमित्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११