मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५५, ऋक् १

संहिता

यवं॑यवं नो॒ अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव ।
सोम॒ विश्वा॑ च॒ सौभ॑गा ॥

पदपाठः

यव॑म्ऽयवम् । नः॒ । अन्ध॑सा । पु॒ष्टम्ऽपु॑ष्टम् । परि॑ । स्र॒व॒ ।
सोम॑ । विश्वा॑ । च॒ । सौभ॑गा ॥

सायणभाष्यम्

हे सोम त्वं नोस्माकं पुष्टंपुष्टं बहुलं यवंयवं पुनःपुनर्युतं रसमन्धसान्नात्मना परिस्रव धार- या क्षर । अन्नप्रार्थयितुस्तृष्णयात्यन्तं पीडितत्वादाबाधेचेति द्विर्भावः । पीडाप्रयोक्तृधर्मो ना- भिधेयर्मइत्युक्तम् । अपिच विश्वा विश्वानि सौभगा सौभानि धनानि परिस्रव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२