मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५५, ऋक् २

संहिता

इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः ।
नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥

पदपाठः

इन्दो॒ इति॑ । यथा॑ । तव॑ । स्तवः॑ । यथा॑ । ते॒ । जा॒तम् । अन्ध॑सः ।
नि । ब॒र्हिषि॑ । प्रि॒ये । स॒दः॒ ॥

सायणभाष्यम्

हे इन्द्रो सोमान्धसोन्नरूपस्य तव संबन्धी स्तवःस्तवनं स्तोत्रं तथा ते तव जातं जन्म यथा प्रादुर्भूतमस्ति तथात्वं प्रिये प्रीणयितरि बर्हिषि अस्मद्यागे निषदः निषण्णोभव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२