मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५५, ऋक् ३

संहिता

उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा ।
म॒क्षूत॑मेभि॒रह॑भिः ॥

पदपाठः

उ॒त । नः॒ । गो॒ऽवित् । अ॒श्व॒ऽवित् । पव॑स्व । सो॒म॒ । अन्ध॑सा ।
म॒क्षुऽत॑मेभिः । अह॑ऽभिः ॥

सायणभाष्यम्

उतापिच हे सोम नोस्माकं गोविद्गोप्रदोश्वविदश्वप्रदश्व त्वं मक्षूतमेभिर्मक्षूतमैरतिशयेन शीघ्रैरहभिरहोभिर्हेतुभिरंधसान्नेन पवस्व धारया क्षर ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२