मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५५, ऋक् ४

संहिता

यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ ।
स प॑वस्व सहस्रजित् ॥

पदपाठः

यः । जि॒नाति॑ । न । जीय॑ते । हन्ति॑ । शत्रु॑म् । अ॒भि॒ऽइत्य॑ ।
सः । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥

सायणभाष्यम्

हे सहस्रजित् सहस्रसंख्यानां शत्रूणां जेतः सोम योभवान् जिनाति शत्रून् नजीयते स्वयंश- त्रुभिर्नजीयते नहन्यतइत्यर्थः । शत्रुभीत्य शत्रुं स्वयमभ्येत्य हन्ति नच स्वयं शत्रुभिरभिभूयते सत्वं पवस्व क्षर ॥ ४ ॥

परिसोमइति चतुरृचं द्वात्रिंशं सूक्तं ऋष्याद्याः पूर्ववत् । परिसोमइत्यनुक्रान्तम् । उक्तोवि- नियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२