मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५६, ऋक् १

संहिता

परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति ।
वि॒घ्नन्रक्षां॑सि देव॒युः ॥

पदपाठः

परि॑ । सोमः॑ । ऋ॒तम् । बृ॒हत् । आ॒शुः । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।
वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥

सायणभाष्यम्

आशुः क्षिप्रकारी देवयुर्देवकामः सोमः पवित्रे स्थित्वा रक्षांसि राक्षसान्विघ्नन् निघ्नन् । बृ- हन्महदृतमन्नं पर्यर्षति परिगमयति अस्मभ्यं प्रयच्छतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३