मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५६, ऋक् २

संहिता

यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युवः॑ ।
इन्द्र॑स्य स॒ख्यमा॑वि॒शन् ॥

पदपाठः

यत् । सोमः॑ । वाज॑म् । अर्ष॑ति । श॒तम् । धाराः॑ । अ॒प॒स्युवः॑ ।
इन्द्र॑स्य । स॒ख्यम् । आ॒ऽवि॒शन् ॥

सायणभाष्यम्

यद्यदा अपस्युवः कर्मकामाः शतं शतसंख्याकाः धाराः सोमस्यधाराः इन्द्रस्य सख्यं सखि- त्वं आविशन् प्राप्नुवन्ति । तदा सोमोवाजमन्नमर्षति गमयति अस्मभ्यं प्रयच्छतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३