मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५६, ऋक् ४

संहिता

त्वमिन्द्रा॑य॒ विष्ण॑वे स्वा॒दुरि॑न्दो॒ परि॑ स्रव ।
नॄन्त्स्तो॒तॄन्पा॒ह्यंह॑सः ॥

पदपाठः

त्वम् । इन्द्रा॑य । विष्ण॑वे । स्वा॒दुः । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ।
नॄन् । स्तो॒तॄन् । पा॒हि॒ । अंह॑सः ॥

सायणभाष्यम्

हे इन्दो सोम स्वादुः प्रियरस्त्वमिन्द्राय इन्द्रार्थं विष्णवे विष्णवर्थंच परिस्रव परिक्षर । नॄन् कर्मणां नेतॄन् स्तोतॄन् त्वद्विषयाणां स्तुतीनां कर्तॄन् अंहसोदुरितात्पाहि रक्ष च ॥ ४ ॥

प्रतेधाराइति चतुरृचं त्रयस्त्रिंशंसूक्तं ऋष्याद्याःपूर्ववत् । प्रतेधाराइत्यनुक्रान्तम् । उक्तोविनि- योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३