मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५७, ऋक् १

संहिता

प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टयः॑ ।
अच्छा॒ वाजं॑ सह॒स्रिण॑म् ॥

पदपाठः

प्र । ते॒ । धाराः॑ । अ॒स॒श्चतः॑ । दि॒वः । न । य॒न्ति॒ । वृ॒ष्टयः॑ ।
अच्छ॑ । वाज॑म् । स॒ह॒स्रिण॑म् ॥

सायणभाष्यम्

हे सोम ते तव असश्चतः संगरहिताधाराः सहस्रिणमपरिमितसंख्याकं वाजमन्नमच्छास्म- दर्थं प्रयन्ति प्रगच्छन्ति । तत्रदृष्टान्तः—दिवोन वृष्टयः यथा द्युलोकात् वर्षधारा निःसंगाः व्रजानामपरिमितमन्नं प्रयन्ति तद्वदित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४