मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५७, ऋक् ३

संहिता

स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः ।
श्ये॒नो न वंसु॑ षीदति ॥

पदपाठः

सः । म॒र्मृ॒जा॒नः । आ॒युऽभिः॑ । इभः॑ । राजा॑ऽइव । सु॒ऽव्र॒तः ।
श्ये॒नः । न । वंसु॑ । सी॒द॒ति॒ ॥

सायणभाष्यम्

सुव्रतः सुकर्मा ससोमः आयुभिर्मनुष्यैः ऋत्विग्भिर्मर्मृजानः शोध्यमानः इभोगतभयो रा- जेव यथा राजा । श्येनोन यथा च श्येनः तथा वंसूदकेषु वसतीवरीषु सीदति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४