मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५८, ऋक् १

संहिता

तर॒त्स म॒न्दी धा॑वति॒ धारा॑ सु॒तस्यान्ध॑सः ।
तर॒त्स म॒न्दी धा॑वति ॥

पदपाठः

तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ । धारा॑ । सु॒तस्य॑ । अन्ध॑सः ।
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥

सायणभाष्यम्

मंदी देवानां हर्षकरः ससोमः तरत् स्तोतॄन् पाप्मनः सकाशात्तारयन् धावति पवते । तदे- व दर्शयति सुतस्याभिषुतस्यांधसो देवानामन्नात्मकस्य सोमस्य धारा धावतीति । पुनरपि त- देवाहात्यन्तादरार्थं तरत्समन्दी धावति । यद्वास्याऋचोयास्केनोक्तोर्थोद्रष्टव्यस्तद्यथा—तरति- सपापंसर्वं मंदी यः स्तौति धावति गच्व्छत्यूर्ध्वांगतिं धारासुतस्यांधसो धारयाभिषुतस्य सोमस्य मंत्रपूतस्य वाचास्तुतस्येति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५