मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५८, ऋक् ३

संहिता

ध्व॒स्रयो॑ः पुरु॒षन्त्यो॒रा स॒हस्रा॑णि दद्महे ।
तर॒त्स म॒न्दी धा॑वति ॥

पदपाठः

ध्व॒स्रयोः॑ । पु॒रु॒ऽसन्त्योः॑ । आ । स॒हस्रा॑णि । द॒द्म॒हे॒ ।
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥

सायणभाष्यम्

ध्वस्रयोः पुरुषंत्योर्ध्वस्रः कश्चिद्राजा पुरुषन्तिश्च कश्चित् तयोरुभयोरत्रेतरेतरयोगविवक्ष- या द्विवचनं द्रष्टव्यम् । सहस्राणि धनानां सहस्राण्यादद्महे वयं प्रतिगृह्णीमः । तदस्माभिःप्रतिगृ- हीतं धनमुत्तममस्त्विति ऋषिः सोमं प्रार्थयतइतिसोमस्यस्तुतिः । सिद्धमन्यत् । यथा वत्सार- एतयोर्धनानि प्रतिजग्राहैवं तरंतपुरुमीह्ळौ प्रतिजगृहतुः । तथाच शाट्यायनकं—अथहवैतरं- तपुरुमीह्ळौ वैददश्वीध्वस्रयोः पुरुषंत्योर्बहुप्रतिगृह्य गरगिराविवमेनाते तौहस्मांगुल्यासातं प्रतिमृशाते तावकामयेतामसातंनाविवेदं सातंस्यादात्तमिवैव नप्रतिगृहीतमितिभावे तच्चतुरृ- चमपश्यतां तेनप्रत्यैतां ततोवैतयोरसातं सातमभवदात्तमिवैव नप्रतिगृहीतं सयः प्रतिप्रतिगृ- ह्य कामयेतेत्यादि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५