मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५९, ऋक् १

संहिता

पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् ।
प्र॒जाव॒द्रत्न॒मा भ॑र ॥

पदपाठः

पव॑स्व । गो॒ऽजित् । अ॒श्व॒ऽजित् । वि॒श्व॒ऽजित् । सो॒म॒ । र॒ण्य॒ऽजित् ।
प्र॒जाऽव॑त् । रत्न॑म् । आ । भ॒र॒ ॥

सायणभाष्यम्

हे सोम गोजित् शत्रूणां गवां जेता अश्वजित् अश्वानामपि जेता विश्वजित् विश्वस्य जग- तोजेता रण्यजित् रमणीयस्य धनस्यापि जेता त्वं पवस्व धारया क्षर । अपिचास्मभ्यं प्रजावत् पुत्राद्युपेतं रत्नं रमणीयं धनमाभराहर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६