मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५९, ऋक् २

संहिता

पव॑स्वा॒द्भ्यो अदा॑भ्य॒ः पव॒स्वौष॑धीभ्यः ।
पव॑स्व धि॒षणा॑भ्यः ॥

पदपाठः

पव॑स्व । अ॒त्ऽभ्यः । अदा॑भ्यः । पव॑स्व । ओष॑धीभ्यः ।
पव॑स्व । धि॒षणा॑भ्यः ॥

सायणभाष्यम्

हे सोम त्वमद्भ्योवसतीवरीभ्योदाभ्योंशुभ्यश्च पवस्व क्षर । अपिचौषधीभ्यः पवस्व क्षर । किंच धिषणाभ्योग्रावभ्यः पवस्व क्षर ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६