मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५९, ऋक् ३

संहिता

त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र ।
क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥

पदपाठः

त्वम् । सो॒म॒ । पव॑मानः । विश्वा॑नि । दुः॒ऽइ॒ता । त॒र॒ ।
क॒विः । सी॒द॒ । नि । ब॒र्हिषि॑ ॥

सायणभाष्यम्

हे सोम पवमानः पूयमानः कविः क्रान्तकर्मा त्वं विश्वानि सर्वाणि दुरिता दुरितानि राक्षसैः कृतान्युपद्रवाणि तर निराकुरु अस्मिन् बर्हिषि निषीदच ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६