पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् ।
इन्दो॒ विश्वाँ॑ अ॒भीद॑सि ॥
पव॑मान । स्वः॑ । वि॒दः॒ । जाय॑मानः । अ॒भ॒वः॒ । म॒हान् ।
इन्दो॒ इति॑ । विश्वा॑न् । अ॒भि । इत् । अ॒सि॒ ॥
हे पवमान सोम त्वं स्वः सर्वं विदो यजमानाय प्रयच्छ । अपिच जायमानः प्रादुर्भवन्नेव महान् पूजनीयो भवोसि । किंच हे इन्दो सोम त्वं विश्वान् सर्वानेव शत्रून् अभ्यसि तेजसा- भिभवसि ॥ ४ ॥
प्रगायत्रेणेति चतुरृचं षट्त्रिंशं सूक्तं काश्यपस्यावत्सारस्यार्षं तृतीयापुरउष्णिक् आद्यद्वाद- शकोद्भ्यष्टकौ । शिष्टागायत्रः पवमानः सोमोदेवता । तथाचानुक्रान्तं—प्रगायत्रेणोपान्त्यापुर- उष्णिगिति । उक्तोविनियोगः ।