मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६०, ऋक् १

संहिता

प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् ।
इन्दुं॑ स॒हस्र॑चक्षसम् ॥

पदपाठः

प्र । गा॒य॒त्रेण॑ । गा॒य॒त॒ । पव॑मानम् । विऽच॑र्षणिम् ।
इन्दु॑म् । स॒हस्र॑ऽचक्षसम् ॥

सायणभाष्यम्

विचर्षणिं विद्रष्टारं सहस्रचक्षसं बहुदर्शनं पवमानं पूयमानमिन्दुं सोमं गायत्रेण गायत्रना- मधेयेन साम्ना प्रगायत । हे स्तोतारो गानं कुरुत स्तुतेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७