मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६०, ऋक् २

संहिता

तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् ।
अति॒ वार॑मपाविषुः ॥

पदपाठः

त्वम् । त्वा॒ । स॒हस्र॑ऽचक्षसम् । अथो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ।
अति॑ । वार॑म् । अ॒पा॒वि॒षुः॒ ॥

सायणभाष्यम्

हे सोम सहस्रचक्षसं बहुदर्शनं अथो अपिच सहस्रभर्णसं बहुभरणं तमभिषुतं त्वा त्वां वारं वालं दशापवित्रं अत्यपाविषुरृत्विजः पावयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७