इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे ।
प्र॒जाव॒द्रेत॒ आ भ॑र ॥
इन्द्र॑स्य । सो॒म॒ । राध॑से । शम् । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ ।
प्र॒जाऽव॑त् । रेतः॑ । आ । भ॒र॒ ॥
हे विचर्षणे विद्रष्टः सोम त्वमिन्द्रस्य राधसे राधनाय संसिध्यै शं सुखकरं रसं पवस्व क्षर । अपिचास्मभ्यं प्रजावत्पुत्राद्युपेतं रेतउदकमन्नं वा आभराहर प्रयच्छेत्यर्थः ॥ ४ ॥
तृतीयेनुवाके सप्त सूक्तानि तत्रायावीतीति त्रींशदृचं प्रथमं सूक्तममहीयुर्नामांगिरसऋषिः गायत्रीछन्दः पवमानःसोमो देवता । तथाचानुक्रान्तं—अयावीतीत्रिंशदमहीयुरिति । उक्तो- विनियोगः ।