मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् २

संहिता

पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् ।
अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥

पदपाठः

पुरः॑ । स॒द्यः । इ॒त्थाऽधि॑ये । दिवः॑ऽदासाय । शम्ब॑रम् ।
अध॑ । त्यम् । तु॒र्वश॑म् । यदु॑म् ॥

सायणभाष्यम्

सद्य एकस्मिन्नेवाह्नि पुरः शत्रूणां पुराणि सोमरसोवाहन् इत्थाधिये सत्यकर्मणे दिवोदा- साय राज्ञे शंबरं शत्रुपुराणां स्वामिनमधाथ त्यं तं तुर्वशं तुर्वशनामकंराजानं दिवोदासशत्रुं यदुं यदुनामकंराजानं च वशमानयच्च । अत्रापि सोमरसं पीत्वा मत्तःसन् इंद्रः सर्वमेतदकार्षी- दिति सोमरसेकर्तृत्वमुपचर्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८