मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ३

संहिता

परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् ।
क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥

पदपाठः

परि॑ । नः॒ । अश्व॑म् । अ॒श्व॒ऽवित् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् ।
क्षर॑ । स॒ह॒स्रिणीः । इषः॑ ॥

सायणभाष्यम्

हे इन्दो सोम अश्ववित् अश्वस्य लंभकस्त्वं नोस्माकमश्वं गोमद्गोयुक्तं हिरण्यवद्धिरण्योपेतं धनंच परिक्षर । अपिच सहस्रिणीर्बहूनि इषोन्नानि क्षर ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८