मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६१, ऋक् ४

संहिता

पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः ।
स॒खि॒त्वमा वृ॑णीमहे ॥

पदपाठः

पव॑मानस्य । ते॒ । व॒यम् । प॒वित्र॑म् । अ॒भि॒ऽउ॒न्द॒तः ।
स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे सोम पवित्रमभ्युंदतः पवित्रमभिक्लेदयतः पवमानस्य क्षरतश्च ते तव सखित्वं सख्यं वयममहीयव आंगिरसा आवृणीमहे प्रार्थयामहे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८